Activities

From SamskritaSangha

Jump to: navigation, search

The new committee of office bearers and volunteers for samskrta sangha was formed in the month of December 2005.

The annual report of samskrta sangha, published in its annual magazine संस्कृतिः, comprises of the list of events conducted during the corresponding year. Both the Sanskrit and English versions are given here.

Contents

Annual Report of samskrta sangha (2008-2009)

samskrt grammar classes -- Samskrta Sangha has plans of conducting several samskrta class sessions this academic year. The first in the series is the basic samskrta grammar session starting September 15, 2008. For details, go to Basic Grammar Classes.

संस्कृतसङ्घस्य वार्षिकनिवेदिका (२००८-०९)

संस्कृतव्याकरणकक्ष्याः -- संस्कृतसङ्घकार्यदर्शिणा हो. ल. प्रसादेन आरब्धाः संस्कृतव्याकरणकक्ष्याः विद्यार्थिनां भाषाप्रज्ञाप्रवर्धकाः चकासति। बहवः विद्यार्थिनः कक्ष्यास्वेतासु भागं गृहीत्वा संस्कृताभिमानिनः अजायन्त। अष्टाध्यायी-लघुसिद्धान्तकौमुद्यावाधार्य चाल्यमाणाः भूयिष्ठछात्रसत्प्रतिस्पन्दनभाजश्च एताः कक्ष्याः अग्रेऽपि अनुवर्त्यन्ते।

सङ्गीतसङ्ध्या -- २००८ वर्षस्य अक्टोबर् मासे १४ तमे दिनाङ्के गणनविज्ञानविभागस्थितायाः गिरिजा-रविशङ्कर-विदुष्याः कर्णाटकसङ्गीत-गानकार्यक्रमः प्रचलितः। कार्यक्रमेऽस्मिन् धनुर्वीणावादनसहकारः कृतः विदुषा सत्यप्रकाशेन। विद्वान् रघु भागवतः मृदङ्गवाद्यसाहाय्यमकुरुत।

सङ्गीतलहरी -- २००९ वर्षस्य मार्च् मासे ०९ तमे दिनाङ्के विदुषः रघु भागवतः निजगानमाधुर्येण श्रोतॄन् अरञ्जयत्। विद्वांसः मत्तूरु श्रीनिधिः, प्रशान्तः, भार्गव हालम्बि क्रमेण धनुर्वीणा-मृदङ्ग-खञ्जीर-वादकाः अवर्तन्त।

वाग्गेयकार-आराधनम् -- एप्रिल् २००९ मासे पञ्चमे दिनाङ्के वाग्गेयकाराणां आराधनम् आचरितम्। प्रातः काले नववादनसमये साम्प्रदायिकसङ्कीर्तनयात्रया आरब्धा स्वरझरी रात्रौ नववादनपर्यन्तं सर्वान् पूतान् कृतवती। प्रातः काले पूजाकार्यक्रमानन्तरं 'सुनादप्रिय' सङ्गीतनिवहेन, भारतीयविज्ञानसंस्थायाः विद्यार्थिभिस्सह घनरागपञ्चरत्न कृतीनां गोष्ठिगानं प्रचलितम्। सायङ्काले पञ्चवादनपर्यन्तं नैकाः सङ्गीतज्ञाः विद्यार्थिनः, विद्यार्थिन्यश्च कर्णाटक, हिन्दुस्थानीय साम्प्रदायावनुसृत्य निजगानवाद्यैः स्वरार्चनमकुर्वत। षड्वादनसमये सतीश-धावन्-सभाङ्गणे आयोजितया सङ्गीतकलानिधेः पद्मभूषणबिरुदाङ्कितस्य प्रो. टी. एन्.कृष्णमहोदयस्य धनुर्वीणानादामृतधारया आराधनकार्यक्रमः समाप्तः। प्रो. कृष्णमहोदयस्य सङ्गीतकार्यक्रमे मृदङ्गवाद्यसहकाराय विद्वान् एच्. एस्. सुधीन्द्रमहोदयः, घटवाद्यसहकाराय गिरिधर-उडुप-महोदयश्च उपस्थितावास्ताम्।

अष्टावधानम् -- २००९ मासे २३ तमे दिनाङ्के सतीशधावन् सभाङ्गणे अवधानिनः डा. शङ्करमहोदयस्य “अष्टावधानम्” आयोजितम्। शतावधानी डा. रा. गणेशः, प्राचार्यः के. एस्. कण्णन्, डा. रङ्गनाथः, श्रीमती आरती बालसुब्रह्मण्यम्, श्री वासुकिः, श्री श्रीशन्, श्री दीपकपरमशिवन् ,श्री हो. ल. प्रसादश्च पृच्छकाः आसन्। अस्मिन्नेव सन्दर्भे संस्कृतसङ्घस्य वार्षिकपत्रिकायाः “संस्कृतिः”-इत्यस्याः २००९ वर्षीयसञ्चिका विद्वद्भिः लोकार्पिता।

संस्कृतसङ्घस्य वार्षिकनिवेदिका (२००७-०८)

गुरुपूर्णिमाचरणम् -- जूलै २००७ मासे ३० तमे दिनाङ्के "गुरुपूर्णिमा-महोत्सवः" आयोजितः। तस्मिन् सन्दर्भे सस्कृतसङ्घस्य अध्यक्षः भारतीयविज्ञान संस्थायाः गणनविज्ञानविभागस्य विश्रान्तप्राचार्यः डा.वी.वी.एस्.शर्मा महोदयः सम्मानितः। सभाकार्यक्रमस्य अध्यक्षः आसीत् विद्युत्सम्पर्कविभागप्राचार्यः डा.नारायणदत्तमहोदयः। सन्मानकार्यक्रमानन्तरं संस्कृसङ्घसदस्यस्य साकेतनाथस्य पत्नी श्रीमती शिरीषा निजवीणावादननेन श्रोतॄनरञ्जयत्।

संस्कृतसम्भाषणशिबिरम् -- बेङ्गलूरुनगरे स्थिता 'संस्कृतभारती' संस्था भारतीयविज्ञानसंस्थायां अक्टोबर् २००७ मासे संस्कृतसम्भाषणशिबिरम् अचालयत् । संस्कृतसेविका पूर्णप्रज्ञाशालायाः संस्कृताध्यापिका श्रीमती शोभा शिबिरे शिक्षिका आसीत्। संस्कृतसम्भाषणे सुलभतां, सरलतां च अनुभूतवन्तः सर्वे विद्यार्थिनः।

"चित्रकाव्यपरिचयः" भाषणसरणिः -- अवधानिना डा. शङ्करमहोदयेन "चित्रकाव्यपरिचयः" इति नाम्ना भाषणसरणिः अक्टोबर् २००७ मासस्य १३ तमदिनाङ्कादारब्धा। प्रथमे भाषणे काव्यविशेषावगमनोपयोगिछन्दसः सोदाहरणं विशदीकृताः। चित्रकाव्यस्य कानिचन विशिष्टोदाहरणान्यपि दर्शितानि। तस्मिन्नेव मासे २७ तमे दिनाङ्के सम्पन्ने द्वितीये भाषणे चित्रकाव्यस्य केचन प्रभेदाः निरूपिताः। द्वयोरपि भाषणयोः चित्रीकरणं कृतम्। एषा भाषणसरणिः वत्सरेऽस्मिन् अग्रे अनुवर्तते।

संस्कृतगद्यपद्यकाव्यरचनास्पर्धा -- मार्च् २००८ मासे २३ तमे दिनाङ्के संस्कृते कवनेच्छुकानां प्रोत्साहोद्देशेन संस्कृतगद्यपद्यकाव्यरचनाप्रतियोगिता समायोजिता। बेङ्गलूरुनगरवासिनामेव उद्दिष्टायां अस्यां स्पर्धायां पूर्णप्रज्ञविद्यापीठ-उत्तरादिमठ-वेदविज्ञानगुरुकुल-भारतीयविज्ञानसंस्थाभ्यः उदीयमनकविवतंसाः भागग्रहीतारः आसन्। समुद्रविवाहौ क्रमेण पद्यगद्यरचनावस्तुनी। पूर्णप्रज्ञविद्यापीठछात्रः एस्. अनन्तशयनः गद्यपद्यरचनयोः लब्धप्राथम्यः रराज। वेदविज्ञानगुरुकुलविद्यार्थी स्वरूपशर्मा, पूर्णप्रज्ञविद्यापीठछात्रः मातरिश्वा च क्रमेण गद्यपद्ययोः प्रशस्तिमप्राप्नुताम्।

वाग्गेयकार-आराधनम् -- मार्च् २००८ मासे ३० तमे दिनाङ्के वाग्गेयकाराणां आराधनम् आचरितम्। प्रातः काले नववादनसमये साम्प्रदायिकसङ्कीर्तनयात्रया आरब्धा स्वरझरी रात्रौ नववादनपर्यन्तं सर्वान् पूतान् कृतवती। प्रातः काले पूजाकार्यक्रमानन्तरं 'सुनादप्रिय' सङ्गीतनिवहेन, भारतीयविज्ञानसंस्थायाः विद्यार्थिभिस्सह घनरागपञ्चरत्न कृतीनां गोष्ठिगानं प्रचलितम्। अनन्तरं वाग्गेयकार-आराधनं अन्वर्थनाम कारयितुं आयोजिते 'वाग्गेयकाररसनामृतम्' कार्यक्रमे 'नादोपासन'-सङ्कीर्तनसङ्घेन विभिन्नवाग्गेयकारविरचितकृतीनां गोष्ठिगानं सुसम्पन्नम् आसीत्। तत्पश्चात् संस्थायाः विद्यार्थी, औत्तरेयकर्णाटशास्त्रीयसङ्गीत-विद्वान् दीपकपरमशिवमहोदयः कर्णाटशास्त्रीयसङ्गीतमूर्तित्रयविरचित कृतिभ्यः जनरञ्जकं व्याख्यानं अददात्। सायङ्काले पञ्चवादनपर्यन्तं नैकाः सङ्गीतज्ञाः विद्यार्थिनः, विद्यार्थिन्यश्च कर्णाटक, हिन्दुस्थानीय साम्प्रदायावनुसृत्य निजगानवाद्यैः स्वरार्चनमकुर्वत। षड्वादनसमये सतीश-धावन्-सभाङ्गणे आयोजितया सङ्गीतकलानिधेः पद्मश्रीबिरुदाङ्कितस्य डा. एन्. रमणीमहोदयस्य मुरलीनिनदामृतधारया आराधनकार्यक्रमः समाप्तः। डा.रमणीमहोदयस्य सङ्गीतकार्यक्रमे धनुर्वीणावाद्यसहकाराय विद्वान् एच्. के. वेङ्कटराममहोदयः, मृदङ्गवाद्यसहकाराय विद्वान् सी. चेलुवराजुमहोदयः, मोर्सिङ्ग्वाद्यसहकाराय विद्वान् श्रीरङ्गं-कण्णन्-महोदयश्च उपस्थिताः आसन्।

संस्कृतरङ्गभूमिपरिचयः - नाट्यशास्त्रानुसारं संस्कृतरूपकप्रयोगः -- एप्रिल् २००८ मासे १३ तमे दिनाङ्के सतीशधावन् सभाङ्गणे शतावधानिना डा. रा. गणेशमहोदयेन ``संस्कृतरङ्गभूमिपरिचयः - नाट्यशास्त्रानुसारं संस्कृतरूपकप्रयोगः" इति विषयमधिकृत्य भाषणम् सुसम्पन्नम्। संस्कृत गद्यपद्यकाव्यरचनाप्रतियोगितायां भागग्रहीत्रेभ्यः युवकविभ्यः तस्मिन्नेव सन्दर्भे पारितोषिक-प्रमाणपत्राणि प्रदत्तानि। संस्कृतसङ्घस्य वार्षिकपत्रिकायाः ``संस्कृतिः"-इत्यस्याः २००८ वर्षसञ्चिका विद्वद्भिः तस्यायामेव सभायां लोकार्पिता।

संस्कृतसङ्घस्य वार्षिकनिवेदिका (२००६-०७)

  • संस्कृतसम्भाषणशिबिरम् -- बेङ्गलूरुनगरे स्थिता ‘संस्कृतभारती’ संस्था भारतीयविज्ञानसंस्थायां मार्च् २००६, जून् २००६ तथा च फिब्रवरी २००७ मासेषु संस्कृतसम्भाषणशिबिराण्यचालयत्। संस्कृतसेविकाः कु.अम्बिका, कु.गीता, कु.सुवर्णा च शिबिरेषु शिक्षिकाः आसन्। संस्कृतसम्भाषणे सुलभतां, सरलतां च अनुभूतवन्तः सर्वे विद्यार्थिनः।
  • संस्कृतव्याकरणशिबिरम् -- संस्कृतभाषाभ्यासकार्यक्रमं अग्रेऽपि अनुवर्तयितुं द्वितीयसोपानरूपेण फिब्रवरी २००७ मासस्य द्वितीयार्धे ‘प्रारम्भिकसंस्कृतव्याकरणशिबिरम्’ सञ्चालितम्। श्री शंङ्करभट्टमहोदयः, श्री सतीशमहोदयः, श्रीनारायणभट्टमहोदयश्च अस्मिन् शिबिरे शिक्षकाः आसन्।
  • “भारतीयसंस्कृतेः परिचयः” भाषणसरणिः -- जनवरी २००६ मासादारभ्य प्रत्येकस्मिन् मासे “भारतीयसंस्कृते: परिचयः” इति नाम्ना शतावधानिना डा. रा. गणेशमहोदयेन भाषणानि सुसंपन्नान्यासन्। भाषणेषु अष्टादशविद्यास्थानानि विशदीकृतानि। आध्यात्मिक अदिभौतिक-आधिदैविकस्थितयश्च सोदाहरणाः निरूपिताः। वेदेषु स्थितानां विभिन्नमन्त्राणां परिचयः कारितः, व्याख्यानञ्च कृतम्। ईशावास्य, प्रश्न, केन, कठ, मुण्डक, माण्डूक्य, बृहदारण्यक, तैत्तिरीयादीनां उपनिषदां स्थूलं विवरणमपि दत्तम्।
  • गुरुपूर्णिमाचरणम् -- जूलै २००६ मासे ११ तमे दिनाङ्के “गुरुपूर्णिमामहोत्सवः” आयोजितः। तस्मिन् सन्दर्भे सस्कृतसङ्घस्य पूर्वाध्यक्षः भारतीयविज्ञानसंस्थायाः आङ्गिकरसायनशास्त्रविभागे विश्रान्तप्राचार्यः प्रो. बालसुब्रह्मण्यमहोदयः सम्मानितः। सभाकार्यक्रमस्य अध्यक्षः आसीत् विद्युद्विभागप्राचार्यः डा. नारायणन्महोदयः। संस्कृतभारत्याः श्रीमान् सत्यनारायणः अस्य कार्यक्रमस्य मुख्यातिथिः आसीत्।
  • वाग्गेयकार-आराधनम् -- मार्च् २००७ मासे चतुर्थे दिनाङ्के वाग्गेयकाराणां आराधनम् आचरितम्। प्रातः काले नववादनसमये साम्प्रदायिकसङ्कीर्तनयात्रया आरब्धा स्वरझरी रात्रौ नववादनपर्यन्तं सर्वान् पुनीतान् कृतवती। प्रातः काले पूजाकार्यक्रमानन्तरं ‘सुनादप्रिय’ सङ्गीतनिवहेन, भारतीयविज्ञानसंस्थायाः विद्यार्थिभिस्सह घनरागपञ्चरत्नकृतीनां गोष्ठिगानं प्रचलितम्। तत्पश्चात् संस्थायाः पूर्वविद्यार्थी, शास्त्रीयसङ्गीतविद्वान् मानसनयनमहोदयः त्यागराजस्वामिनः कृतीनां जनरञ्जकं व्याख्यानं अददात्। सायङ्काले पञ्चवादनपर्यन्तं नैकाः सङ्गीतज्ञाः विद्यार्थिनः, विद्यार्थिन्यश्च कर्णाटक, हिन्दुस्थानीय सम्प्रदायावनुसृत्य निजगानवाद्यैः स्वरार्चनमकुर्वत। षड्वादनसमये सतीशधावन् सभाङ्गणे आयोजितया सङ्गीतकलानिधेः कर्णाटकराज्यसङ्गीतविदुषः डा. आर्. के. श्रीकण्ठन्महोदयस्य शास्त्रीयसङ्गीतामृतधारया आराधनकार्यक्रमः समाप्तः। डा. श्रीकण्ठन्-महोदयस्य सङ्गीतकार्यक्रमे विद्वान् आर्. एस्. रमाकान्तमहोदयः सुस्वरसाहाय्यं कृतवान्। धनुर्वीणावाद्यसहकाराय विद्वान् सी. एन्. चन्द्रशेखरमहोदयः, मृदङ्गवाद्यसहकाराय विद्वान् वी. कृष्ण महोदयः, घटवाद्यसहकाराय विद्वान् फणीन्द्रभास्करमहोदयः, तम्बुरवाद्यसहकाराय विद्वान् मानसनयनमहोदयः च उपस्थिताः आसन्।
  • अष्टावधानम् -- मार्च् २००७ मासे २५ तमे दिनाङ्के सतीशधावन् सभाङ्गणे शतावधानिनः डा. रा. गणेशमहोदयस्य “अष्टावधानम्” आयोजितम्। श्री सुधीरकृष्णस्वामीकेसरी, प्राचार्यः श्री के. एस्. कण्णन्, डा. रङ्गनाथः, श्री दीपकपरमशिवन्, श्रीमती नागलक्ष्मी, श्री भै. कामेश्वररावुः, श्री व. शिवरामकृष्णः, डा. शङ्करः, श्री राघवेन्द्रहेब्बालळु च पृच्छकाः आसन्। तथा च तस्मिन् सन्दर्भे संस्कृतसङ्घस्य वार्षिकपत्रिकायाः “संस्कृतिः”-इत्यस्याः २००७ वर्षीयसञ्चिका विद्वद्भिः लोकार्पिता।
  • विष्णुसहस्रनामपारायणम् -- प्रत्येकस्मिन् स्थिरवासरे संस्कृतसङ्घः विष्णुसहस्रनामपारायणं कुर्वन् अस्ति। अस्मिन् कार्यक्रमे बहवः विद्यार्थिनः भागं गृह्णन्ति।
  • सांस्कृतिककार्यक्रमाः -- संस्कृतसम्भाषणशिबिराणां समारोपसन्दर्भेषु शिबिरभागिनैः छात्रैः गैर्वाण्यां “मार्जालस्य दमनम्”, “संन्यासेच्छा”, “चतुरः कालिदासः”, “रुग्णवैद्यसंवादः” इति रूपकाणि, “चाणक्यः”, “भो भो अलसः मा भवतु” इति एकाभिनेतृरूपकद्वयम्, समूहगानानि, हास्यकणिकाः, कथावाचनमित्यादयः सांस्कृतिककार्यक्रमाः प्रदर्शिताः।
  • 'वन्देमातरम्' गीतस्य शतमानोत्सवः -- 'वन्देमातरम्' गीतस्य शतमानोत्सवसन्दर्भे भारतीयविज्ञानसंस्थायाः छात्रैः दीपकपरमशिवन्, सत्यप्रकाश, प्रशान्तपोत्निस्, विनोदकुमारैः हिन्दुस्थानीयसङ्गीतकार्यक्रमः आयोजितः। वन्देमातरगीतं विभिन्नेषु रागेषु आलापितम् आसीत्। दीपकमहोदयः सारङ्गीवादनेन, निजगाननिपुणतया च, सत्यप्रकाशमहोदयः धनुर्वीणावादनेन, प्रशान्तमहोदयः तबलावाद्यसाहाय्येन, विनोदमहोदयः स्वरमण्डलसहकारेण आहूतान् श्रोतॄन् अरञ्जयन्।


नूतनकार्यदर्शिनौ कार्तीकप्रसादौ संस्कृतसङ्घस्य नवीनं अन्तर्जालस्थानं परिकल्पितवन्तौ। अस्मिन् वर्षे भारतीयविज्ञानसंस्थायाः 'जिम् खाना'-भवने स्थिते रानडे ग्रन्थालये बहूनि संस्कृतपुस्तकानि अवलोकनार्थं स्थापितानि सन्ति।

Activities of 2009

Annual Events

  • 5th April
Vaggeyakaara Aaradhanam
  • 23rd May
AshTaavadhaanam
  • 20th December
संस्कृतगद्यपद्यकाव्यरचनास्पर्धा - Creative Sanskrit Composition in Prose and Verse

Learning Samskrit

  • 22nd June to 7th July
Spoken Samskrit Classes

सङ्गीतलहरी - Series of classical music concerts by young artists

  • 9th March
Carnatic Classical musical recital by Vid. Raghu Bhagavat.

संस्कृतकाव्येषु अभिव्यक्ता भारतीयसंस्कृतिः - Lecture Series on "Indian Culture as reflected in the works of Sanskrit Poets" by Shataavadhaani Dr. R. Ganesh

  • First lecture: 25th September 2009
  • Second lecture: 27th October 2009

Activities of 2008

Annual Events

  • 23rd March
संस्कृतगद्यपद्यकाव्यरचनास्पर्धा - Creative Sanskrit Composition in Prose and Verse
  • 30th March
Vaggeyakaara Aaradhanam

Talks

  • 13th April
Introduction to Samskrt Theatre, by Shataavadhani R Ganesh

Special Events

  • 14th October
Carnatic Classical recital by Vid. Girija Ravishankar of CSA department.

Activities of 2007

Annual Events

  • 4th March
Vaggeyakaara Aaradhanam
  • 25th March
AshTaavadhaanam

Learning Samskrit

  • October
Spoken Samskrit Classes

Lecture Series on Chitrakaavya, by Dr. R Shankar

  • First Lecture, 13th October 2007
  • Second Lecture, 27th October 2007

Special Events

  • 30th July
Guru purnima celebrations

Activities of 2006

Talks

  • 21st January
Why we need Sanskrit Poetry?, by Shataavadhani R Ganesh

Learning Samskrit

  • March
Spoken Samskrit Classes
  • June
Spoken Samskrit Classes

Lecture Series on Indian Culture, by Shataavadhani R Ganesh

  • First Lecture, April 6th 2006 - Abstract
  • Second Lecture, May 9th 2006
  • Third Lecture, June 8th 2006
  • Fourth Lecture, July 4th 2006
  • Fifth Lecture, Aug 8th 2006
  • Sixth Lecture, Sep 11th 2006

Special Events

  • 11th July 2006
Guru Purnima Celebrations
Plays in Samskrit
Felicitiation of Prof Balasubrahmanyam
Samskrit Songs
Carnatic Song by Sivaramakrishnan
  • 7th September 2006
Vande Mataram Concert
Views
Personal tools